|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.27. अध्यायः 027
Mahabharata - Karna Parva - Chapter Topics
देवानां प्रार्थनया ब्रह्मणा रुद्ररथसारथ्यकरणम्॥ 1 ॥ रुद्रेण त्रिपुरदहनम्॥ 2 ॥ दुर्योधनेन दृष्टान्तप्रदर्शनपूर्वकं शल्यम्प्रति कर्णरथसारथ्यकरणप्रार्थना॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text
दुर्योधन उवाच। 8-27-0x(4894)(56209)
तमब्रुवन्देवगणा यं भवान्सन्नियोक्ष्यते।
स भविष्यति देवेश सारथिस्ते न संशयः॥ 8-27-1(56210)
तानब्रवीन्महादेवो मत्तः श्रेष्ठतरो हि यः।
तं सारथिं कुरुध्वं वै स्वयं सञ्चिन्त्य मा चिरम्॥ 8-27-2(56211)
एतच्छ्रुत्वा वचो देवाः सर्वे गत्वा पितामहम्।
प्रणिपत्योचुरेकाग्राः प्रसाद्यैनं महर्षिभिः॥ 8-27-3(56212)
त्वया यत्कथितं देव त्रिदशारिनिबर्हणे।
तथा तत्कृतमस्माभिः प्रसन्नश्च वृषध्वजः॥ 8-27-4(56213)
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः।
सारथिं च न जानीमः कः स्यात्तस्मिन्रथोत्तमे॥ 8-27-5(56214)
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम।
सफलां तां गिरं देव कर्तुमर्हसि नो विभो।
एवमस्मासु हि पुरा भगवन्नुक्तवानसि॥ 8-27-6(56215)
सदैव युक्तो रथसत्तमो वै
दुराधर्षो द्रावणः शात्रवाणाम्।
पिनाकधन्वा विहितोऽत्र योद्धा
विभीषयन्दानवानुद्यतोऽसौ॥ 8-27-7(56216)
तथैव वेदाश्च हया रथाग्र्य
धरा सशैला च रथो महात्मनः।
नक्षत्रवंशानुगतो वरूथी
यस्मिन्योद्धा सारथिनाऽभिरक्ष्यः॥ 8-27-8(56217)
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान्॥ 8-27-9(56218)
तं प्रविष्टा रथं देवा रथयोद्वारमेव च।
कवचानि च शस्त्राणि कार्मुकं च पितामह॥ 8-27-10(56219)
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम्।
त्वं हि सर्वैर्गणैर्युक्तोदेवताभ्योऽधिकः प्रभो॥ 8-27-11(56220)
त्वं देव शक्तो लोकेश नियन्तुं प्रद्रुतानिमान्।
वेदांश्च सोपनिषदः सारथिर्भव नः स्वयम्॥ 8-27-12(56221)
योद्वुं बलेन वीर्येण सत्वेन विनयेन च।
अधिकःसारथिःकार्यो नास्ति चान्योऽधिको भवात्॥ 8-27-13(56222)
स भवांस्तारयत्वस्मान्कुरु सारथ्यमव्यय।
भवानभ्यधिकस्त्वत्तो नान्योस्ति भविता त्विह॥ 8-27-14(56223)
त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर।
तं रथं त्वं समारुह्य संयच्छ परमान्हयान्॥ 8-27-15(56224)
तव प्रसादाद्वध्येयुर्देव दैवतकण्टकाः।
स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात्॥ 8-27-16(56225)
त्वं हि नो गतिरव्यग्र तवं न्त्रे गोप्ता महाव्रत।
त्वत्प्रसादात्सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो॥ 8-27-17(56226)
इति ते शिरसाऽगच्छंस्त्रिलोकेशं पितामहम्।
देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम्॥ 8-27-18(56227)
ब्रह्मोवाच। 8-27-19x(4895)
एवमेतत्सुरास्तथ्यं नान्यस्त्वभ्यधिको भवात्।
सारथित्वं करिष्यामि शङ्करस्य महात्मनः॥ 8-27-19(56228)
सर्वथा रथिनः श्रेयान्कर्तव्यो रथसारथिः।
तस्मादेतद्यथातत्त्वं ज्ञात्वा युष्मांश्च सङ्गतान्।
संयच्छामि हयानेष विबुधाय कपर्दिने॥ 8-27-20(56229)
दुर्योधन उवाच। 8-27-21x(4896)
एवमुक्त्वा जटाभारं संयम्य प्रपितामहः।
परिधायाजिनं गाढं सन्न्यस्य च कमण्डलुम्।
प्रतोदपाणिर्भगवानारुरोह रथं तदा॥ 8-27-21(56230)
सारथौ कल्पिते देवैरीशानस्य महात्मनः।
तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम्।
शिरोभिः पतिता भूमौ तुरगा वेदसम्भृताः॥ 8-27-22(56231)
उभाभ्यां लोकनाथाभ्यामास्थितं रथसत्तमम्।
ओढुं न शक्ता वेदाश्वा जानुभ्यामपतन्महीम्॥ 8-27-23(56232)
अभीशुभिस्तु भगवानुद्यम्य च हयान्विभुः।
अस्तु वीर्यं च शौर्यं च वेदाश्वानामिति प्रभुः।
रथं सञ्चोदयामास देवानां प्रभुरव्ययः॥ 8-27-24(56233)
ततोऽधिरूढे वरदे रथं पशुपतिस्तदा।
साधुसाध्विति देवेशं स्मयमानोऽभ्यभाषत॥ 8-27-25(56234)
याहि देव यतो दैत्याश्चोदयाश्वानरिन्दम।
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे॥ 8-27-26(56235)
ततोऽश्वांश्चोदयामास मनोमारुतरंहसः।
पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम्॥ 8-27-27(56236)
ततस्ते सहसोत्पत्य वेदाख्या रथवाजिनः।
क्षणेन तेन दैत्यानां पुराणि प्रापयन्हरम्॥ 8-27-28(56237)
अथर्वाङ्गिरसौ चास्तां चक्ररक्षौ महात्मनः।
अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम्।
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्॥ 8-27-29(56238)
तस्मिन्स्थिते ततो राजन्रुद्रे सज्जितकार्मुके।
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै॥ 8-27-30(56239)
एकीभावं गते चैव त्रिपुरत्वमुपागते।
बभूव तुमुलो हर्षो देवतानां महात्मनाम्॥ 8-27-31(56240)
ततो देवगुणाः सर्वे सिद्धाश्च परमर्षयः।
जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम्॥ 8-27-32(56241)
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान्।
अनिर्देश्याग्र्यवपुषो देवस्यासह्यतेजसः॥ 8-27-33(56242)
त्रीणि दृष्ट्वैव संस्थानि पुराण्यथ पिनाकधृत्।
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः।
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति॥ 8-27-34(56243)
एकबाणेन तं देवस्त्रिपुरं परमेश्वरः।
निजघ्ने सासुरगणं देवदेवो महेश्वरः॥ 8-27-35(56244)
बाणतेजोग्निदग्धं तद्विप्रकीर्णं सहस्रधा।
महदार्तस्वरं कृत्वा नावशेषमुपागतम्।
मद्रेश सासुरगणं प्रापतत्पश्चिमार्णवे॥ 8-27-36(56245)
एवं हि त्रिपुरं दग्धं दानवाश्चाप्यशेषतः।
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा॥ 8-27-37(56246)
स चात्मक्रोधजो विह्निर्दहेत्युक्तो निवारितः।
त्रैलोक्यमविशेषेण पुनर्दग्धुं प्रचक्रमे॥ 8-27-38(56247)
कालाग्निमिव निर्दग्धुमुत्थितं तं पुनः पुनः।
माकार्षीर्भस्मासाल्लोकानिति त्र्यक्षोऽब्रवीद्वचः॥ 8-27-39(56248)
ततः प्रकृतिमापन्ना देलोकास्तथर्षयः।
तुष्टुवुर्वाग्भिरग्र्याभिः स्थाणुं त्रिपुरवैरिणम्॥ 8-27-40(56249)
तेऽनुज्ञाता भगवता सर्वे जग्मुर्यथागतम्।
कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः॥ 8-27-41(56250)
एवं रुद्रस्य कृतवान्सारथ्यं तु पितामहः।
संयच्छ तुरगानस्य राधेयस्य महात्मनः॥ 8-27-42(56251)
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च गुणाधिकः।
बलतो रूपतो योगादस्त्रसम्पद एव च॥ 8-27-43(56252)
समासक्तं महीपाल कुरु मे हितमीप्सितम्।
युद्वे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ।
तस्माच्छक्तौ युवां जेतुं मच्छत्रून्दिवि वा सुरान्॥ 8-27-44(56253)
स यथा शल्य कर्णोऽयं श्वंताश्वं कृष्णसारथिम्।
प्रमथ्य हन्यात्कौन्तेयं तथा नीतिर्विधीयताम्॥ 8-27-45(56254)
त्वयि राज्यं सुखं चैव जीवितं जयमेव च।
समासक्तं महीपाल कुरु मे हितमीप्सितम्॥ 8-27-46(56255)
संयच्छास्य हयान्त्राजन्मत्प्रियार्थं परन्तप॥ ॥ 8-27-47(56256)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तविंशोऽध्यायः॥ 27 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|